Get it on Google Play
Download on the App Store

प्राणिवर्गः - श्लोक १०४ ते १४०


 १०४) उद्भिदस् तरुगुल्माद्या उद्भिदुद्भिज्जमुद्भिदम्
१०५) सुन्दरं रुचिरं चारु सुषमं साधु शोभनम्
१०६) कान्तं मनोरमं रुच्यं मनोज्ञं मञ्जु मञ्जुलम्
१०७) रम्यं मनोहरं सौम्यं भद्रकं रमणीयकम्
१०८) तदासेचनकं तृप्तेर्नास्त्यन्तो यस्य दर्शनात्
१०९) अभीष्टेऽभीप्सितं हृद्यं दयितं वल्लभं प्रियम्
११०) निकृष्टप्रतिकृष्टाऽर्वरेफयाप्याऽवमाऽधमाः
१११) कुपूयकुत्सिताऽवद्यखेटगर्ह्याऽणकाः समाः
११२) मलीमसं तु मलिनं कच्चरं मलदूषितम्
११३) पूतं पवित्रं मेध्यं च वीध्रं तु विमलाऽर्थकम्
११४) निर्णिक्तं शोधितं मृष्टं निःशोध्यमनवस्करम्
११५) असारं फल्गु शून्यं तु वशिकं तुच्छरिक्तके
११६) क्लीबे प्रधानं प्रमुखप्रवेकाऽनुत्तमोत्तमाः
११७) मुख्यवर्यवरेण्याश् च प्रवर्होऽनवरार्ध्यवत्
११८) परार्ध्याऽग्रप्राग्रहरप्राग्रयाऽग्रयाऽग्रीयमग्रियम्
११९) श्रेयान् श्रेष्ठः पुष्कलः स्यात् सत्तमश् चाऽतिशोभने
१२०) स्युरुत्तरपदे व्याघ्रपुङ्गवर्षभकुञ्जराः
१२१) सिंहशार्दूलनागाद्याः पुंसि श्रेष्ठाऽर्थगोचराः
१२२) अप्राग्रयं द्वयहीने द्वे अप्रधानोपसर्जने
१२३) विशंकटं पृथु बृहद् विशालं पृथुलं महत्
१२४) वड्रोरुविपुलं पीनपीव्नी तु स्थूलपीवरे
१२५) स्तोकाऽल्पक्षुल्लकाः सूक्ष्मं श्लक्ष्णं दभ्रं कृशं तनु
१२६) स्त्रियां मात्रा त्रुटिः पुंसि लवलेशकणाऽणवः
१२७) अत्यल्पेऽल्पिष्ठमल्पीयः कनीयोऽणीय इत्यपि
१२८) प्रभूतं प्रचुरं प्राज्यमदभ्रं बहुलं बहु
१२९) पुरुहूः पुरु भूयिष्ठं स्फारं भूयश च भूरि च
१३०) परः शताद्यास् ते येषां परा संख्या शतादिकात्
१३१) गणनीये तु गणेयं संख्याते गणितमथ समं सर्वम्
१३२) विश्वमशेषं कृत्स्नं समस्तनिखिलाऽखिलानि निःशेषम्
१३३) समग्रं सकलं पूर्णमखण्डं स्यादनूनके
१३४) घनं निरन्तरं सान्द्रं पेलवं विरलं तनु
१३५) समीपे निकटासन्नसंनिकृष्टसनीडवत्
१३६) सदेशाऽभ्याशसविधसमर्यादसवेशवत्
१३७) उपकण्ठाऽन्तिकाऽभ्यर्णाऽभ्यग्रा अप्यभितोऽव्ययम्
१३८) संसक्ते त्वव्यवहितमपदान्तरमित्यपि
१३९) नेदिष्ठमन्तिकतमं स्याद्दूरं विप्रकृष्टकम्
१४०) दवीयश्च दविष्ठं च सुदूरं दीर्घमायतम्
 

अमरकोषः (Amarkosh Sanskrit)

Contributor
Chapters
मङ्गलाचरणम् - श्लोक १ ते ११ स्वर्गवर्गः - श्लोक ११ ते ४० स्वर्गवर्गः - श्लोक ४१ ते ८० स्वर्गवर्गः - श्लोक ८१ ते १२० स्वर्गवर्गः - श्लोक १२१ ते १६६ व्योमवर्गः - श्लोक १६७ ते १७२ दिग्वर्गः - श्लोक १७३ ते २१० दिग्वर्गः - श्लोक २११ ते २५० कालवर्गः - श्लोक २५१ ते २९० कालवर्गः - श्लोक २९१ ते ३१५ धीवर्गः - श्लोक ३१६ ते ३५१ शब्दवर्गः - श्लोक ३५२ ते ४०६ नाट्यवर्गः - श्लोक ४०७ ते ४४० नाट्यवर्गः - श्लोक ४४१ ते ४८५ पातालभोगिवर्गः - श्लोक ४८६ ते ५१० नरकवर्गः - श्लोक ५११ ते ५१७ वारिवर्गः - श्लोक ५१८ ते ५५० वारिवर्गः - श्लोक ५५१ ते ६०४ काण्डसमाप्तिः - श्लोक ६०५ ते ६०८ वर्गभेदाः - श्लोक १ ते २ भूमिवर्गः - श्लोक ३ ते ४० पुरवर्गः - श्लोक ४१ ते ८१ शैलवर्गः - श्लोक ८२ ते ९८ वनौषधिवर्गः - श्लोक ९९ ते १४० वनौषधिवर्गः - श्लोक १४१ ते १८० वनौषधिवर्गः - श्लोक १८१ ते २२० वनौषधिवर्गः - श्लोक २२१ ते २६० वनौषधिवर्गः - श्लोक २६१ ते ३०० वनौषधिवर्गः - श्लोक ३०१ ते ३४० वनौषधिवर्गः - श्लोक ३४१ ते ३८० वनौषधिवर्गः - श्लोक ३८१ ते ४३६ सिंहादिवर्गः - श्लोक ४३७ ते ४८० सिंहादिवर्गः - श्लोक ४८१ ते ५२८ मनुष्यवर्गः - श्लोक ५२९ ते ५७० मनुष्यवर्गः - श्लोक ५७१ ते ६१० मनुष्यवर्गः - श्लोक ६११ ते ६५० मनुष्यवर्गः - श्लोक ६५१ ते ६९० मनुष्यवर्गः - श्लोक ६९१ ते ७३० मनुष्यवर्गः - श्लोक ७३१ ते ७७० विशेष्यनिघ्नवर्गः - श्लोक १ ते ४० विशेष्यनिघ्नवर्गः - श्लोक ४१ ते ८० विशेष्यनिघ्नवर्गः - श्लोक ८१ ते १०३ प्राणिवर्गः - श्लोक १०४ ते १४० प्राणिवर्गः - श्लोक १४१ ते १८० प्राणिवर्गः - श्लोक १८१ ते २२८ संकीर्णवर्गः - श्लोक २२९ ते २७० संकीर्णवर्गः - श्लोक २७१ ते ३१३ नानार्थवर्गः - श्लोक ३१४ ते ३५९ नानार्थवर्गः - श्लोक ३६० ते ३९७ नानार्थवर्गः - श्लोक ३९८ ते ४३३ नानार्थवर्गः - श्लोक ४३४ ते ४५९ नानार्थवर्गः - श्लोक ४६० ते ५२६ नानार्थवर्गः - श्लोक ५२७ ते ५६३ नानार्थवर्गः - श्लोक ५६४ ते ६११ नानार्थवर्गः - श्लोक ६१२ ते ६५१ नानार्थवर्गः - श्लोक ६५२ ते ६८३ नानार्थवर्गः - श्लोक ६८४ ते ७५० नानार्थवर्गः - श्लोक ७५१ ते ७८१ नानार्थवर्गः - श्लोक ७८२ ते ८०९