Get it on Google Play
Download on the App Store

वनौषधिवर्गः - श्लोक २६१ ते ३००


 २६१) वत्सादनी छिन्नरुहा गुडूची तन्त्रिकामृता
२६२) जीवन्तिका सोमवल्ली विशल्या मधुपर्ण्यपि
२६३) मूर्वा देवी मधुरसा मोरटा तेजनी स्त्रुवा
२६४) मधूलिका मधुश्रेणी गोकर्णी पीलुपर्ण्यपि
२६५) पाटाम्बष्टा विद्धकर्न्णी स्थापनी श्रेयसी रसा
२६६) एकाष्टीला पापचेली प्राचीना वनतिक्तिका
२६७) कटुः कटम्भराशोकरोहिणी कटुरोहिणी
२६८) मत्स्यपित्ता कृष्णभेदी चक्राङ्गी शकुलादनी
२६९) आत्मगुप्ताजहाव्यण्डा कण्डूरा प्रावृषायणी
२७०) ऋष्यप्रोक्ता शूकशिम्बिः कपिकच्छुश्च मर्कटी
२७१) चित्रोपचित्रा न्यग्रोधी द्रवन्ती शम्बरी वृशा
२७२) प्रत्यक्ष्रेणी सुतश्रेणी रण्डा मूषिकपर्ण्यपि
२७३) अपामार्गः शैखरिको धामार्गवमयूरकौ
२७४) प्रत्यक्पर्णी केशपर्णी किणिही खरमञ्जरी
२७५) हञ्जिका ब्राम्हणी पद्मा भर्गी ब्राह्मणयष्टिका
२७६) अङ्गारवल्ली बालेयशाकबर्बरवर्धकाः
२७७) मञ्जिष्टा विकसा जिङ्गी समङ्गा कालमेषिका
२७८) मण्डूकपर्णी मण्डीरी भण्डी योजनवल्ल्यपि
२७९) यासो यवासो दुःस्पर्शो धन्वयासः कुनाशकः
२८०) रोदनी कच्छुरानन्ता समुद्रान्ता दुरालभा
२८१) पृश्निपर्णी पृथक्पर्णी चित्रपर्ण्यङ्घ्रिवल्लिका
२८२) क्रोष्टुविन्ना सिंहपुच्छी कलशीर्धावनिर्गुहा
२८३) निदिग्धिका स्पृशी व्याघ्री बृहती कण्टकारिका
२८४) प्रचोदनी कुली क्षुद्रा दुःस्पर्शा राष्ट्रिकेत्यपि
२८५) नीली काला क्लीतकिका ग्रामीणा मधुपर्णिका
२८६) रञ्जनी श्रीफली तुत्था द्रोणी दोला च नीलिनी
२८७) अवल्गुजः सोमराजी सुवल्लिः सोमवल्लिका
२८८) कालमेषी कृष्णफली बाकुची पूतिफल्यपि
२८९) कृष्णोपकुल्या वैदेही मागधी चपला कणा
२९०) उषणा पिप्पली शौण्डी कोलाथ करिपिप्पली
२९१) कपिवल्ली कोलवल्ली श्रेयसी वशिरः पुमान्
२९२) चव्यं तु चविका काकचिञ्चीगुञ्जे तु कृष्णला
२९३) पलंकषा त्विक्षुगन्धा श्वदंष्ट्रा स्वादुकण्टकः
२९४) गोकण्टको गोक्षुरको वनशृन्ङ्गाट इत्यपि
२९५) विश्वा विषा प्रतिविषातिविषोपविषारुणा
२९६) शृन्गी महौषधं चाथ क्षीरावी दुग्धिका समे
२९७) शतमूली बहुसुताभीरूरिन्दीवरी वरी
२९८) ऋष्यप्रोक्ताभीरुपत्रीनारायण्यः शतावरी
२९९) अहेरुरथ पीतद्रुकालीयकहरिद्रवः
३००) दार्वी पचंपचा दारुहरिद्रा पर्जनीत्यपि
 

अमरकोषः (Amarkosh Sanskrit)

Contributor
Chapters
मङ्गलाचरणम् - श्लोक १ ते ११ स्वर्गवर्गः - श्लोक ११ ते ४० स्वर्गवर्गः - श्लोक ४१ ते ८० स्वर्गवर्गः - श्लोक ८१ ते १२० स्वर्गवर्गः - श्लोक १२१ ते १६६ व्योमवर्गः - श्लोक १६७ ते १७२ दिग्वर्गः - श्लोक १७३ ते २१० दिग्वर्गः - श्लोक २११ ते २५० कालवर्गः - श्लोक २५१ ते २९० कालवर्गः - श्लोक २९१ ते ३१५ धीवर्गः - श्लोक ३१६ ते ३५१ शब्दवर्गः - श्लोक ३५२ ते ४०६ नाट्यवर्गः - श्लोक ४०७ ते ४४० नाट्यवर्गः - श्लोक ४४१ ते ४८५ पातालभोगिवर्गः - श्लोक ४८६ ते ५१० नरकवर्गः - श्लोक ५११ ते ५१७ वारिवर्गः - श्लोक ५१८ ते ५५० वारिवर्गः - श्लोक ५५१ ते ६०४ काण्डसमाप्तिः - श्लोक ६०५ ते ६०८ वर्गभेदाः - श्लोक १ ते २ भूमिवर्गः - श्लोक ३ ते ४० पुरवर्गः - श्लोक ४१ ते ८१ शैलवर्गः - श्लोक ८२ ते ९८ वनौषधिवर्गः - श्लोक ९९ ते १४० वनौषधिवर्गः - श्लोक १४१ ते १८० वनौषधिवर्गः - श्लोक १८१ ते २२० वनौषधिवर्गः - श्लोक २२१ ते २६० वनौषधिवर्गः - श्लोक २६१ ते ३०० वनौषधिवर्गः - श्लोक ३०१ ते ३४० वनौषधिवर्गः - श्लोक ३४१ ते ३८० वनौषधिवर्गः - श्लोक ३८१ ते ४३६ सिंहादिवर्गः - श्लोक ४३७ ते ४८० सिंहादिवर्गः - श्लोक ४८१ ते ५२८ मनुष्यवर्गः - श्लोक ५२९ ते ५७० मनुष्यवर्गः - श्लोक ५७१ ते ६१० मनुष्यवर्गः - श्लोक ६११ ते ६५० मनुष्यवर्गः - श्लोक ६५१ ते ६९० मनुष्यवर्गः - श्लोक ६९१ ते ७३० मनुष्यवर्गः - श्लोक ७३१ ते ७७० विशेष्यनिघ्नवर्गः - श्लोक १ ते ४० विशेष्यनिघ्नवर्गः - श्लोक ४१ ते ८० विशेष्यनिघ्नवर्गः - श्लोक ८१ ते १०३ प्राणिवर्गः - श्लोक १०४ ते १४० प्राणिवर्गः - श्लोक १४१ ते १८० प्राणिवर्गः - श्लोक १८१ ते २२८ संकीर्णवर्गः - श्लोक २२९ ते २७० संकीर्णवर्गः - श्लोक २७१ ते ३१३ नानार्थवर्गः - श्लोक ३१४ ते ३५९ नानार्थवर्गः - श्लोक ३६० ते ३९७ नानार्थवर्गः - श्लोक ३९८ ते ४३३ नानार्थवर्गः - श्लोक ४३४ ते ४५९ नानार्थवर्गः - श्लोक ४६० ते ५२६ नानार्थवर्गः - श्लोक ५२७ ते ५६३ नानार्थवर्गः - श्लोक ५६४ ते ६११ नानार्थवर्गः - श्लोक ६१२ ते ६५१ नानार्थवर्गः - श्लोक ६५२ ते ६८३ नानार्थवर्गः - श्लोक ६८४ ते ७५० नानार्थवर्गः - श्लोक ७५१ ते ७८१ नानार्थवर्गः - श्लोक ७८२ ते ८०९